Sukta 10.101
उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः । वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥
उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानि॑: । वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥
ubhe dhurau vahnir āpibdamāno ’ntaryonāiva carati dvijāniḥ | vanaspatiṃ vane ā asthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam ||
On both yokes the Carrier moves, drinking in, like a child within the womb, the twice-born. Set up the lord of the forest in the forest; place it firmly down—digging out the spring.
उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ । वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥उभे इति । धुरौ । वह्निः । आपिब्दमानः । अन्तः । योनाइव । चरति । द्विजानिः । वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥ubhe iti | dhurau | vahniḥ | āpibdamānaḥ | antaḥ | yonāiva | carati | dvi-jāniḥ | vanaspatim | vane | ā | asthāpayadhvam | ni | su | dadhidhvam | akhanantaḥ | utsam