Sukta 10.101
आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥
आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः । परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥
ā tū ṣiñca harimīṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ | pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta ||
Come, pour the tawny force into the lap of the wooden trough; with stone-like adzes shape it well. Embrace it round with ten girths; to both yokes bind the bearer of the fire—yoke the will to its double powers.
आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः । परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥आ । तु । सिञ्च । हरिम् । ईम् । द्रोः । उपस्थे । वाशीभिः । तक्षत । अश्मन्मयीभिः । परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त ॥ā | tu | siñca | harim | īm | droḥ | upa-sthe | vāśībhiḥ | takṣata | aśman-mayībhiḥ | pari | svajadhvam | daśa | kakṣyābhiḥ | ubhe iti | dhurau | prati | vahnim | yunakta