Sukta 10.100
ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत । स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥
ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत । स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ūrdhvó grā́vā vasavo’stu sotári víśvā dveṣā́ṃsi sanutár yuyota | sá no deváḥ savitā́ pāyúr ī́ḍya ā́ sarvatā́tim áditiṃ vṛṇīmahe ||
Let the pressing-stone rise upright, O Vasus, in the presser; and from the far side drive away all hatreds. May that god Savitṛ, the guardian worthy of adoration, protect us; we choose Aditi, the integral totality, for our complete becoming.
ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि॑ । विश्वा॑ । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ । सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ऊर्ध्वः । ग्रावा । वसवः । अस्तु । सोतरि । विश्वा । द्वेषांसि । सनुतः । युयोत । सः । नः । देवः । सविता । पायुः । ईड्यः । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥ūrdhvaḥ | grāvā | vasavaḥ | astu | sotari | viśvā | dveṣāṃsi | sanutaḥ | yuyota | saḥ | naḥ | devaḥ | savitā | pāyuḥ | īḍyaḥ | ā | sarva-tātim | aditim | vṛṇīmahe