Sukta 10.100
अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः । ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥
अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
apā́mīvāṃ savitā́ sāviṣan nyàg varī́yaḥ íd ápa sedhántv ádrayaḥ | grā́vā yátra madhuṣúd ucyáte bṛhád ā́ sarvatā́tim áditiṃ vṛṇīmahe ||
May Savitṛ drive away the sickness; downward may the hostile forces be pressed back—yes, let the pressing-stones repel them. Where the stone is spoken of as the wide Honey-pressing Power, there we choose Aditi, the integral totality, for our complete becoming.
अप॑ । अमी॑वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य॑क् । वरी॑यः । इत् । अप॑ । से॒ध॒न्तु॒ । अद्र॑यः । ग्रावा॑ । यत्र॑ म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥अप । अमीवाम् । सविता । साविषत् । न्यक् । वरीयः । इत् । अप । सेधन्तु । अद्रयः । ग्रावा । यत्र मधुसुत् । उच्यते । बृहत् । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥apa | amīvām | savitā | sāviṣat | nyak | varīyaḥ | it | apa | sedhantu | adrayaḥ | grāvā | yatramadhu-sut | ucyate | bṛhat | ā | sarva-tātim | aditim | vṛṇīmahe