Sukta 10.100
न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् । माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ná vo guhā́ cakṛma bhū́ri duṣkṛtáṃ nā́viṣṭyaṃ vasavo deva-heḷánam | mā́kir no devā́ anṛ́tasya várpasa ā́ sarvatā́tim áditiṃ vṛṇīmahe ||
We have not done for you, O Vasus, any great wrong in secret, nor any open offence that wounds the gods. Let none of you gods put upon us the covering-form of untruth; we choose Aditi, the all-embracing wholeness, for the totality of our becoming.
न । वः॒ । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दुः॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒वः॒ । दे॒व॒ऽहेळ॑नम् । माकिः॑ । नः॒ । दे॒वाः॒ । अनृ॑तस्य । वर्प॑सः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥न । वः । गुहा । चकृम । भूरि । दुःकृतम् । न । आविःत्यम् । वसवः । देवहेळनम् । माकिः । नः । देवाः । अनृतस्य । वर्पसः । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥na | vaḥ | guhā | cakṛma | bhūri | duḥ-kṛtam | na | āviḥ-tyam | vasavaḥ | deva-heḷanam | mākiḥ | naḥ | devāḥ | anṛtasya | varpasaḥ | ā | sarva-tātim | aditim | vṛṇīmahe