Sukta 10.100
इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः । यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
índrasya nú su-kṛ́taṁ daívyam sáho 'gnír gṛhé jaritā́ médhiraḥ kavíḥ | yajñaś ca bhūd vidáthe cā́rur ántamaḥ ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
Now the well-done divine might of Indra—Agni in the house, the praising priest, the wise seer—(is established). And the sacrifice has become in the assembly most dear and inmost. Toward all-integrity we choose Aditi.
इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः । य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥इन्द्रस्य । नु । सुकृतम् । दैव्यम् । सहः । अग्निः । गृहे । जरिता । मेधिरः । कविः । यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥indrasya | nu | su-kṛtam | daivyam | sahaḥ | agniḥ | gṛhe | jaritā | medhiraḥ | kavi ḥ | yajñaḥ | ca | bhūt | vidathe | cāruḥ | antamaḥ | ā | sarva-tātim | aditim | vṛṇīmahe