Sukta 10.100
इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः । यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः । य॒ज्ञो मनु॒: प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
índra ukthéna śávasā párur dadhē bṛ́haspate pra-tarītā́sy ā́yuṣaḥ | yajñó mánuḥ prámatir naḥ pitā́ hí kám ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
Indra has set the joints (of our being) by the hymn and by force. O Bṛhaspati, thou art the furtherer, the one who carries us across in our life. The sacrifice, Manu, and the right intelligence are our father indeed—toward all-integrity we choose Aditi.
इन्द्रः॑ । उ॒क्थेन॑ । शव॑सा । परुः॑ । द॒धे॒ । बृह॑स्पते । प्र॒ऽत॒री॒ता । अ॒सि॒ । आयु॑षः । य॒ज्ञः । मनुः॑ । प्रऽम॑तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥इन्द्रः । उक्थेन । शवसा । परुः । दधे । बृहस्पते । प्रतरीता । असि । आयुषः । यज्ञः । मनुः । प्रमतिः । नः । पिता । हि । कम् । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥indraḥ | ukthena | śavasā | paruḥ | dadhe | bṛhaspate | pra-tarītā | asi | āyuṣaḥ | yajñaḥ | manuḥ | pra-matiḥ | naḥ | pitā | hi | kam | ā | sarva-tātim | aditim | vṛṇīmahe