Sukta 10.100
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः । यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥
इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोम॑: सुवि॒तस्याध्ये॑तु नः । यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
índro asmḗ su-mánā astu viśváhā rājā sómaḥ suvitásyā́dhy etu naḥ | yáthāyathā mitrá-dhitāni sam-dadhúr ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
May Indra be for us of good mind always; may King Soma enter into our right-going felicity. As the foundations set by Mitra are joined together rightly—we choose Aditi for the all-integrity.
इन्द्रः॑ । अ॒स्मे इति॑ । सु॒ऽमनाः॑ । अ॒स्तु॒ । वि॒श्वहा॑ । राजा॑ । सोमः॑ । सु॒वि॒तस्य॑ । अधि॑ । ए॒तु॒ । नः॒ । यथा॑ऽयथा । मि॒त्रऽधि॑तानि । स॒म्ऽद॒धुः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥इन्द्रः । अस्मे इति । सुमनाः । अस्तु । विश्वहा । राजा । सोमः । सुवितस्य । अधि । एतु । नः । यथायथा । मित्रधितानि । सम्दधुः । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥indraḥ | asme iti | su-manāḥ | astu | viśvahā | rājā | somaḥ | suvitasya | adhi | etu | naḥ | yathāyathā | mitra-dhitāni | sam-dadhuḥ | ā | sarva-tātim | aditim | vṛṇīmahe