Sukta 10.100
आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ā́ no devaḥ savitā́ sāviṣad váya ṛjúyate yajamānāya sunvaté | yáthā devā́n prati-bhū́ṣema pā́kavad ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
May the god Savitṛ impel for us the plenitude of life, for the straight-going sacrificer who presses. So that we may duly adorn and approach the gods as one ripened in consciousness—we choose Aditi for the all-integrity.
आ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः॑ । ऋजु॒ऽय॒ते । यज॑मानाय । सु॒न्व॒ते । यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पा॒क॒ऽवत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥आ । नः । देवः । सविता । साविषत् । वयः । ऋजुयते । यजमानाय । सुन्वते । यथा । देवान् । प्रतिभूषेम । पाकवत् । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥ā | naḥ | devaḥ | savitā | sāviṣat | vayaḥ | ṛju-yate | yajamānāya | sunvate | yathā | devān | prati-bhūṣema | pāka-vat | ā | sarva-tātim | aditim | vṛṇīmahe