Sukta 10.100
भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
bhárāya sú bharata bhāgám ṛtvíyaṁ prá vā́yave śucipé krándad-iṣṭaye | gáur asya yáḥ páyasaḥ pītím ānaśé ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
Bring well the priestly share for the bearing (of the offering); forward it to Vāyu who drinks the pure, who is invoked with the cry of desire. He who has attained the drinking of this bull’s milk—we choose Aditi for the all-integrity.
भरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये । गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥भराय । सु । भरत । भागम् । ऋत्वियम् । प्र । वायवे । शुचिपे । क्रन्दत्इष्टये । गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥bharāya | su | bharata | bhāgam | ṛtviyam | pra | vāyave | śuci-pe | krandat-iṣṭaye | gaurasya | yaḥ | payasaḥ | pītim | ānaśe | ā | sarva-tātim | aditim | vṛṇīmahe