Sukta 10.100
इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
índra dŕ̥hya maghaván tvā́vad íd bhujá ihá stutáḥ sutapā́ bodhi no vṛ́dhe | devébhir naḥ savitā́ prā́vatu śrutám ā́ sarvatā́tim áditiṁ vṛṇīmahe ||
O Indra, stand firm, O bountiful one; for with thee alone is our winning enjoyment. Here, praised, O drinker of the pressed Soma, awaken for our increase. With the gods, may Savitṛ protect us—toward the heard (true) inspiration; we choose Aditi, the vast all-integrity.
इन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे । दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥इन्द्र । दृह्य । मघवन् । त्वावत् । इत् । भुजे । इह । स्तुतः । सुतपाः । बोधि । नः । वृधे । देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥indra | dṛhya | magha-van | tvāvat | it | bhuje | iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vṛdhe | devebhiḥ | naḥ | savitā | pra | avatu | śrutam | ā | sarva-tātim | adi tim | vṛṇīmahe