Sukta 10.100
क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् । पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥
क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् । पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
kratu-prā́vā jaritā́ śáśvatām áva índra íd bhadrā́ prámatíḥ sutā́vatām | pūrṇám ū́dhar divyáṃ yásya siktáye ā́ sarvatā́tim áditiṃ vṛṇīmahe ||
Indra, the protector of the will, is indeed the enduring help of the singer; his glad discernment is for those who have the pressed Soma. His heavenly udder is full for the pouring-out; we choose Aditi, the integral totality, for our complete becoming.
क्र॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑ताम् । अवः॑ । इन्द्रः॑ । इत् । भ॒द्रा । प्रऽम॑तिः । सु॒तऽव॑ताम् । पू॒र्णम् । ऊधः॑ । दि॒व्यम् । यस्य॑ । सि॒क्तये॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥क्रतुप्रावा । जरिता । शश्वताम् । अवः । इन्द्रः । इत् । भद्रा । प्रमतिः । सुतवताम् । पूर्णम् । ऊधः । दिव्यम् । यस्य । सिक्तये । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥kratu-prāvā | jaritā | śaśvatām | avaḥ | indraḥ | it | bhadrā | pra-matiḥ | suta-vatām | pūrṇam | ūdhaḥ | divyam | yasya | siktaye | ā | sarva-tātim | aditim | vṛṇīmahe