Sukta 10.10
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥
न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर॑न्ति । अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
ná tíṣṭhanti ná ní míṣantyeté devā́nāṁ spáśa ihá yé cáranti | anyéna mádāhano yā́hi tū́yaṁ téna ví vṛhe rathyéva cakrā́ ||
These watchers of the gods who move here do not stand still, nor do they wink. O smiter of delight, go swiftly by another way; with that, tear yourself free, as a wheel from the chariot’s rut.
न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति । अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पशः । इह । ये । चरन्ति । अन्येन । मत् । आहनः । याहि । तूयम् । तेन । वि । वृहेव । रथ्याइव । चक्रा ॥na | tiṣṭhanti | na | ni | miṣanti | ete | devānām | spaśaḥ | iha | ye | caranti | anyena | mat | āhanaḥ | yāhi | tūyam | tena | vi | vṛheva | rathyāiva | cakrā