Sukta 10.10
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥
रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥
rā́trībhirasmā́ áhbhir daśasyétsū́ryasya cákṣur muhúr unmimīyāt | divā́ pṛthivyā́ mithunā́ sabandhū́ yamī́ryámasya bibhṛyād ajā́mi ||
Let her serve him with nights and with days; let the Sun’s eye open again and again. Heaven and Earth are a pair, akin and joined; let Yamī bear Yama—not in un-lawful mingling, but as one who carries the twin-power without confusion.
रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् । दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥रात्रीभिः । अस्मै । अहभिः । दशस्येत् । सूर्यस्य । चक्षुः । मुहुः । उत् । मिमीयात् । दिवा । पृथिव्या । मिथुना । सबन्धू इति सबन्धू । यमीः । यमस्य । बिभृयात् । अजामि ॥rātrībhiḥ | asmai | aha-bhiḥ | daśasyet | sūryasya | cakṣuḥ | muhuḥ | ut | mimīyāt | divā | pṛthivyā | mithunā | sabandhūitisa-bandhū | yamīḥ | yamasya | bibhṛyāt | ajāmi