Sukta 10.10
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥
को अ॒स्य वे॑द प्रथ॒मस्याह्न॒: क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
kó asyá veda prathamásyā́hnaḥ ká īṃ dadarśa ká ihá prá vocat | bṛhán mitrásya váruṇasya dhā́ma kádu brava āhanó vī́cyā nṝ́n ||
Who knows of this first day? Who has seen it, who here can declare it? Vast is the dwelling of Mitra and Varuṇa—how indeed will you speak, O slayer, to separate men (by decisive word)?
कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊँ॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईम् । ददर्श । कः । इह । प्र । वोचत् । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊँ इति । ब्रवः । आहनः । वीच्या । नॄन् ॥kaḥ | asya | veda | prathamasya | ahnaḥ | kaḥ | īm | dṛrśa | kaḥ | iha | pra | vocat | bṛhat | mitrasya | varuṇasya | dhāma | kat | oṃ iti | bravaḥ | āhanaḥ | vīcyā | nṝn