Sukta 10.10
गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥
gárbhe nu nau janitā́ dámpatī kár devás tvaṣṭā́ savitā́ viśvárūpaḥ | nákir asya prá minanti vratā́ni véda nāv asyá pṛthivī́ utá dyáuḥ ||
In the womb, our begetter as a pair—what god was he? Tvaṣṭṛ, Savitṛ, the All-formed. None transgresses his laws; of him both Earth and Heaven know—and so do we.
गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥गर्भे । नु । नौ । जनिता । दम्पती इति दम्पती । कः । देवः । त्वष्टा । सविता । विश्वरूपः । नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः ॥garbhe | nu | nau | janitā | dampatī itidam-patī | kaḥ | devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | nakiḥ | asya | pra | minanti | vratāni | veda | nau | asya | pṛthivī | uta | dyauḥ