Sukta 10.10
न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम । गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम । ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभि॑: पर॒मं जा॒मि तन्नौ॑ ॥
ná yát purā́ cakṛmá kád dha nūnám ṛtā́ vádanto ánṛtaṃ rapema | gandharvó apsv ápyā́ ca yóṣā sā́ no nā́bhiḥ paramáṃ jā́mi tán nau ||
If we did something before, why should we now—speaking truth—fall into untruth? The Gandharva in the waters and the watery maiden: she is our navel, our highest kinship—this is that bond between us.
न । यत् । पु॒रा । च॒कृ॒म॒ । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ । ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋता । वदन्तः । अनृतम् । रपेम । गन्धर्वः । अप्सु । अप्या । च । योषा । सा । नः । नाभिः । परमम् । जामि । तत् । नौ ॥na | yat | purā | cakṛma | kat | ha | nūnam | ṛtā | vadantaḥ | anṛtam | rapema | gandharvaḥ | ap-su | apyā | ca | yoṣā | sā | naḥ | nābhiḥ | paramam | jāmi | tat | nau