Sukta 10.10
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥
उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒: पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
uśánti ghā́ te amṛ́tāsa etád ékasya cit tyajásam mártyasya | ní te máno mánasi dhāyy asmé janyúḥ pátiḥ tanvàm ā́ viviśyāḥ ||
The immortals, indeed, desire this—(they approve) even the casting-off of one mortal’s limitation. Let your mind be set within my mind; as spouse, enter into my embodied being.
उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥उशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः ॥uśanti | gha | te | amṛtāsaḥ | etat | ekasya | cit | tyajasam | martyasya | ni | te | manaḥ | manasi | dhāyi | asme iti | janyuḥ | patiḥ | tanvam | ā | viviśyāḥ