Sukta 10.10
बतो बतासि यम नैव ते मनो हृदयं चाविदाम । अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥
ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम । अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ॥
bató batāsi yama náiva te máno hṛ́dayaṁ cāvidāma | anyā́ kíla tvā́ṁ kakṣyéva yuktáṁ pári ṣvajāte líbujeva vṛkṣám ||
Alas, alas, O Yama—truly I have not known your mind and heart. Another indeed embraces you, as a belt a yoked one; as a clinging creeper a tree.
ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ । अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥बतः । बत । असि । यम । न । एव । ते । मनः । हृदयम् । च । अविदाम । अन्या । किल । त्वाम् । कक्ष्याइव । युक्तम् । परि । स्वजाते । लिबुजाइव । वृक्षम् ॥bataḥ | bata | asi | yama | na | eva | te | manaḥ | hṛdayam | ca | avidāma | anyā | k ila | tvām | kakṣyāiva | yuktam | pari | svajāte | libujāiva | vṛkṣam