Sukta 10.10
न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥
न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुद॑: कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
ná vā u te tanvā́ tanváṁ sáṁ papṛcyāṁ pā́pam āhur yáḥ svásāraṁ nigácchāt | anyéna mátpramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭy etát ||
I will not unite body with body with you; they call it an evil when one goes to his sister. By another, apart from me, arrange your gladness; your brother, O fortunate, does not will this.
न । वै । ऊँ॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥न । वै । ऊँ इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निगच्छात् । अन्येन । मत् । प्रमुदः । कल्पयस्व । न । ते । भ्राता । सुभगे । वष्टि । एतत् ॥na | vai | oṃ iti | te | tanvā | tanvam | sam | papṛcyām | pāpam | āhuḥ | yaḥ | svasāram | ni-gacchāt | anyena | mat | pra-mudaḥ | kalpayasva | na | te | bhrātā | su-bhage | vaṣṭi | etat