Sukta 10.10
अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥
अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥
anyámū ṣú tvaṁ yamy anyá u tvā́ṁ pári ṣvajāte líbujeva vṛkṣám | tásya vā́ tvaṁ mánas icchā́ sá vā́ tavā́dhā kṛṇuṣva saṁvídaṁ subhadrā́m ||
Seek another, O Yamī; another embraces you, as a creeper a tree. Desire with your mind for him; and he for you—then make a harmonious understanding, auspicious and fortunate.
अ॒न्यम् । ऊँ॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊँ॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छा । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥अन्यम् । ऊँ इति । सु । त्वम् । यमि । अन्यः । ऊँ इति । त्वाम् । परि । स्वजाते । लिबुजाइव । वृक्षम् । तस्य । वा । त्वम् । मनः । इच्छा । सः । वा । तव । अध । कृणुष्व । सम्विदम् । सुभद्राम् ॥anyam | oṃ iti | su | tvam | yami | anyaḥ | oṃ iti | tvām | pari | svajāte | libujāiva | vṛkṣam | tasya | vā | tvam | manaḥ | icchā | saḥ | vā | tava | adha | kṛṇuṣva | sam-vidam | su-bhadrām