Sukta 10.10
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निॠतिर्निगच्छात् । काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥
किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निॠ॑तिर्नि॒गच्छा॑त् । काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥
kíṁ bhrā́tāsad yád anā́thaṁ bhávāti kímu svásā yánnī́rtir nigácchāt | kā́mamūtā bahvé́tad rapāmi tanvā́ me tanváṁ sáṁ pipṛgdhi ||
What is a brother if he becomes without refuge? What is a sister if destruction comes upon her? Driven by desire I speak much of this: with your embodied being join my embodied being into fullness.
किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊँ॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊँ इति । स्वसा । यत् । निःऋतिः । निगच्छात् । काममूता । बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥kim | bhrātā | asat | yat | anātham | bhavāti | kim | oṃ iti | svasā | yat | niḥ-ṛtiḥ | ni-gacchāt | kāma-mūtā | bahu | etat | rapāmi | tanvā | me | tanvam | sam | pipṛgdhi