Sukta 1.93
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑: । सं दे॑व॒त्रा ब॑भूवथुः ॥
agnī́ṣomā sávedasā sáhūtī vanataṃ gíraḥ | sáṃ devatrā́ babhūvathuḥ ||
Agni and Soma, one in knowledge, united in the call, accept these words; become wholly present in the godward way.
अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ । सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥अग्नीषोमा । सवेदसा । सहूती इति सहूती । वनतम् । गिरः । सम् । देवत्रा । बभूवथुः ॥agnīṣomā | sa-vedasā | sahūtī itisa-hūtī | vanatam | giraḥ | sam | deva-trā | babhūvathuḥ