Sukta 1.93
अग्नीषोमावनेन वां यो वां घृतेन दाशति । तस्मै दीदयतं बृहत् ॥
अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥
agnī́ṣomāv anéna vāṃ yó vāṃ ghṛténa dā́śati | tásmai dīdayataṃ bṛhát ||
Agni and Soma, for the one who offers to you with this clarified light, make shine for him the Vast—let the great illumination blaze.
अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति । तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥अग्नीषोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दाशति । तस्मै । दीदयतम् । बृहत् ॥agnīṣomau | anena | vām | yaḥ | vām | ghṛtena | dāśati | tasmai | dīdayatam | bṛhat