Sukta 1.93
यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन । तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥
yó agnī́ṣomā havíṣā saparyā́d devadrī́cā mánasā yó ghṛténa | tásya vratáṃ rakṣataṃ pātám aṃháso viśé jánāya máhi śárma yacchatam ||
Whoever serves you, Agni and Soma, with offering, with a mind turned godward, with clarified light—guard his law of working, protect him from the falling into darkness; and to the people, to the human being, grant a great shelter.
यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ । तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥यः । अग्नीषोमा । हविषा । सपर्यात् । देवद्रीचा । मनसा । यः । घृतेन । तस्य । व्रतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥yaḥ | agnīṣomā | haviṣā | saparyāt | devadrīcā | manasā | yaḥ | ghṛtena | tasya | vratam | rakṣatam | pātam | aṃhasaḥ | viśe | janāya | mahi | śarma | yacchatam