Sukta 1.93
अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
agnī́ṣomā havíṣaḥ prá-sthitasya vītáṃ háryataṃ vṛṣaṇā juṣéthām | su-śármāṇā svávasā hí bhūtám áthā dhattaṃ yájamānāya śáṃ yóḥ ||
Agni and Soma, come to the offering set forth; take delight in it, you two mighty ones. Become for us good shelters by your own free power; then place in the sacrificer peace and well-being.
अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् । सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥अग्नीषोमा । हविषः । प्रस्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषेथाम् । सुशर्माणा । सुअवसा । हि । भूतम् । अथ । धत्तम् । यजमानाय । शम् । योः ॥agnīṣomā | haviṣaḥ | pra-sthitasya | vītam | haryatam | vṛṣaṇā | juṣethām | su-śarmāṇā | su-avasā | hi | bhūtam | atha | dhattam | yajamānāya | śam | yoḥ