Sukta 1.93
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑: । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥
ā́nyaṃ divó mātáriśvā jabhārā́mathnād anyáṃ pári śyénó adréḥ | agnī́ṣomā bráhmaṇā vāvṛdhānóruṃ yajñā́ya cakrathur u lokám ||
One (treasure) from heaven Mātariśvan brought; another the Falcon won by churning it from the Rock. O Agni and Soma, grown by the Word, you made a wide world-space for the sacrifice.
आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ । अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् ॥आ । अन्यम् । दिवः । मातरिश्वा । जभार । अमथ्नात् । अन्यम् । परि । श्येनः । अद्रेः । अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् ॥ā | anyam | divaḥ | mātariśvā | jabhāra | amathnāat | anyam | pari | śyenaḥ | adreḥ | agnīṣomā | brahmaṇā | vavṛdhānā | urum | yajñāya | cakrathuḥ | oṃ iti | lokam