Sukta 1.93
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
yuvám etā́ni diví rocanā́ny agníś ca soma sákratū adhattam | yuváṃ síndhūn abhíśaster avadyā́d agnī́ṣomā́v amuñcataṃ gṛbhītā́n ||
You two set these shining regions in heaven—Agni and Soma, strong in will. You released the rivers held fast by the curse of the hostile word; O Agni and Soma, you freed what had been seized.
यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् । यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥युवम् । एतानि । दिवि । रोचनानि । अग्निः । च । सोम । सक्रतू इति सक्रतू । अधत्तम् । युवम् । सिन्धून् । अभिशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥yuvam | etāni | divi | rocanāni | agniḥ | ca | soma | sakratūitisa-kratū | adhattam | yuvam | sindhūn | abhi-śasteḥ | avadyāt | agnīṣomau | amuñcatam | gṛbhītān