Sukta 1.93
अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः । अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥
agnī́ṣomā céti tád vī́ryaṃ vāṃ yád ámuṣṇītam avasáṃ paṇíṃ gā́ḥ | ávā́tirataṃ bṛ́sayasya śéṣo'víndataṃ jyótir ékaṃ bahúbhyaḥ ||
Agni and Soma, your heroic power is manifest: you wrested the rays of Light from the Paṇi who denies the offering; you overthrew what was left of Bṛsaya and found the single Light for the many.
अग्नी॑षोमा । चेति॑ । तत् । वी॒र्य॑म् । वा॒म् । यत् । अमु॑ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः । अव॑ । अ॒ति॒र॒त॒म् । बृस॑यस्य । शेषः॑ । अवि॑न्दतम् । ज्योतिः॑ । एक॑म् । ब॒हुऽभ्यः॑ ॥अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः । अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः । एकम् । बहुभ्यः ॥agnīṣomā | ceti | tat | vīryam | vām | yat | amuṣṇītam | avasam | paṇim | gāḥ | ava | atiratam | bṛsayasya | śeṣaḥ | avindatam | jyotiḥ | ekam | bahu-bhyaḥ