Sukta 1.93
अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
agnī́ṣomā yá āhútiṃ yó vāṃ dā́śādd havíṣkṛtim | sá prajā́yā su-vī́ryaṃ víśvam ā́yur ví aśnavat ||
Agni and Soma, whoever offers you the oblation, whoever gives you the rightly-shaped offering-force, he attains through the soul’s increase a heroic plenitude, and he reaches out to the whole wideness of life.
अग्नी॑षोमा । यः । आहु॑तिम् । यः । वा॒म् । दासा॑त् । ह॒विःऽकृ॑तिम् । सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥अग्नीषोमा । यः । आहुतिम् । यः । वाम् । दासात् । हविःकृतिम् । सः । प्रजया । सुवीर्यम् । विश्वम् । आयुः । वि । अश्नवत् ॥agnīṣomā | yaḥ | āhutim | yaḥ | vām | dāsāt | haviḥ-kṛtim | saḥ | pra-jayā | su-vīryam | viśvam | āyuḥ | vi | aśnavat