Sukta 1.93
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति । तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑: सप॒र्यति॑ । तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥
agnī́ṣomā yó adyá vā́m idáṃ vácaḥ sapáryati | tásmai dhattaṃ su-vī́ryaṃ gavā́ṃ póṣaṃ sv-áśvyam ||
Agni and Soma, whoever today serves you with this word, to him grant heroic force of soul; grant increase of the rays (cows) and a noble power of energies (horses).
अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ । तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति । तस्मै । धत्तम् । सुवीर्यम् । गवाम् । पोषम् । सुअश्व्यम् ॥agnīṣomā | yaḥ | adya | vām | idam | vacaḥ | saparyati | tasmai | dhattam | su-vīryam | gavām | poṣam | su-aśvyam