Sukta 1.93
अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑: ॥
agnī́ṣomāv imáṃ sú me śṛṇutáṃ vṛṣaṇā hávam | práti sūkṭā́ni haryataṃ bhávataṃ dāśúṣe máyaḥ ||
Agni and Soma, hear well this my call, O two puissant powers. Take delight in these well-fashioned words; become for the giver a force of gladness and inner ease.
अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् । प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हवम् । प्रति । सुउक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः ॥agnīṣomau | imam | su | me | śṛṇutam | vṛṣaṇā | havam | prati | su-uktāni | haryatam | bhavatam | dāśuṣe | mayaḥ