Sukta 1.93
अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् । आ यातमुप नः सचा ॥
अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् । आ या॑त॒मुप॑ न॒: सचा॑ ॥
agnī́ṣomāv imā́ni no yuváṃ havyā́ jujoṣatam | ā́ yātam úpa naḥ sácā ||
Agni and Soma, accept these offerings of ours; come here to us and draw near in companionship.
अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् । आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥अग्नीषोमौ । इमानि । नः । युवम् । हव्या । जुजोषतम् । आ । यातम् । उप । नः । सचा ॥agnīṣomau | imāni | naḥ | yuvam | havyā | jujoṣatam | ā | yātam | upa | naḥ | sacā