Sukta 1.93
अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः । अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑: । अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥
agnī́ṣomā pipṛtám árvato na ā́ pyāyantām usríyā havyasū́daḥ | asmḗ balā́ni maghávat-su dhattaṃ kṛṇutáṃ no adhvaráṃ śruṣṭí-mantam ||
Agni and Soma, fill our course forward; let the shining powers that press the offering swell within us. Place strengths in us among the givers; make our sacrifice rich in obedience and right hearing.
अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसू॒दः॑ । अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥अग्नीषोमा । पिपृतम् । अर्वतः । नः । आ । प्यायन्ताम् । उस्रियाः । हव्यसूदः । अस्मे इति । बलानि । मघवत्सु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिमन्तम् ॥agnīṣomā | pipṛtam | arvataḥ | naḥ | ā | pyāyantām | usriyāḥ | havya-sūdaḥ | asme iti | balāni | maghavat-su | dhattam | kṛṇutam | naḥ | adhvaram | śruṣṭi-mantam