Sukta 1.91
सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर्नोऽविता भव ॥
सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒: सन्ति॑ दा॒शुषे॑ । ताभि॑र्नोऽवि॒ता भ॑व ॥
sóma yā́s te mayó-bhuva ūtáyaḥ sánti dāśúṣe | tā́bhir no ’vitā́ bhava ||
O Soma, whatever thy help-forces are that bring delight to the giver, by those become our protector.
सोम॑ । याः । ते॒ । म॒यः॒ऽभुवः॑ । ऊ॒तयः॑ । सन्ति॑ । दा॒शुषे॑ । ताभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥सोम । याः । ते । मयःभुवः । ऊतयः । सन्ति । दाशुषे । ताभिः । नः । अविता । भव ॥soma | yāḥ | te | mayaḥ-bhuvaḥ | ūtayaḥ | santi | dāśuṣe | tābhiḥ | naḥ | avitā | bhava