Sukta 1.91
इमं यज्ञमिदं वचो जुजुषाण उपागहि । सोम त्वं नो वृधे भव ॥
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥
imáṃ yajñám idáṃ váco jujuṣāṇá upā́gahi | sóma tvaṃ no vṛdhé bhava ||
Accepting this sacrifice and this word, come near. O Soma, be for us our increase and upward growth.
इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि । सोम॑ । त्वम् । नः॒ । वृ॒धे । भ॒व॒ ॥इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपआगहि । सोम । त्वम् । नः । वृधे । भव ॥imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi | soma | tvam | naḥ | vṛdhe | bhava