Sukta 1.91
त्वं नः सोम विश्वतो रक्षा राजन्नघायतः । न रिष्येत्त्वावतः सखा ॥
त्वं न॑: सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑त॒: सखा॑ ॥
tvaṃ naḥ soma viśvátó rákṣa rājan aghāyatáḥ | ná riṣyēt tvā́vataḥ sákhā ||
Guard us on every side, O Soma, King, from the forces that wish evil. The friend who is supported by thee does not suffer harm.
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । रक्ष॑ । रा॒ज॒न् । अ॒घ॒ऽय॒तः । न । रि॒ष्ये॒त् । त्वाऽव॑तः । सखा॑ ॥त्वम् । नः । सोम । विश्वतः । रक्ष । राजन् । अघयतः । न । रिष्येत् । त्वावतः । सखा ॥tvam | naḥ | soma | viśvataḥ | rakṣa | rājan | agha-yataḥ | na | riṣyet | tvāvataḥ | sakhā