Sukta 1.91
त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असि क्रतुः ॥
त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतु॑: ॥
tvaṃ sómāsi sát-patis tvaṃ rājotá vṛtra-hā́ | tvaṃ bhadró asi krátuḥ ||
Thou, O Soma, art the lord of the true; thou art the King, and thou too art the slayer of the Coverer. Thou art the auspicious Will, the effective power of discernment.
त्वम् । सो॒म॒ । अ॒सि॒ । सत्ऽप॑तिः । त्वम् । राजा॑ । उ॒त । वृ॒त्र॒ऽहा । त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥त्वम् । सोम । असि । सत्पतिः । त्वम् । राजा । उत । वृत्रहा । त्वम् । भद्रः । असि । क्रतुः ॥tvam | soma | asi | sat-patiḥ | tvam | rājā | uta | vṛtra-hā | tvam | bhadraḥ | asi | kratuḥ