Sukta 1.91
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो विश्वैः सुमना अहेळन्राजन्त्सोम प्रति हव्या गृभाय ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वै॑: सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
yā́ te dhā́māni diví yā́ pṛthivyā́m yā́ párvateṣv óṣadhīṣv apsú | tébhir no víśvaiḥ su-manā́ áheḷan rā́jan soma práti havyā́ gṛbhāya ||
O Soma, King, by all those your abodes that are in heaven, on earth, on the mountains, in the healing plants and in the waters—by all of them come to us with a luminous goodwill, without anger, and take up our offerings.
या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । तेभिः॑ । नः॒ । विश्वैः॑ । सु॒ऽमनाः॑ । अहे॑ळन् । राज॑न् । सो॒म॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥या । ते । धामानि । दिवि । या । पृथिव्याम् । या । पर्वतेषु । ओषधीषु । अप्सु । तेभिः । नः । विश्वैः । सुमनाः । अहेळन् । राजन् । सोम । प्रति । हव्या । गृभाय ॥yā | te | dhāmāni | divi | yā | pṛthivyām | yā | parvateṣu | oṣadhīṣu | ap-su | tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḷan | rājan | soma | prati | havyā | gṛbhāya