Sukta 1.91
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
rājño nú te váruṇasya vratā́ni bṛhád-gabhīráṃ táva soma dhā́ma | śucíṣ tvám asi priyó ná mitró dakṣā́yyo aryamā́iva asi soma ||
Thy laws are those of Varuṇa the king; vast and deep is thy home, O Soma. Thou art pure; dear like Mitra; fit for the work of right discernment, like Aryaman—O Soma, thou art that noble power of ordered truth.
राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ । शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम । शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाइव । असि । सोम ॥rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma | śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamāiva | asi | soma