Sukta 1.91
त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः । त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥
त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षै॑: सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षा॑: ॥
tváṃ sóma krátubhiḥ sukrátur bhūs tváṃ dákṣaiḥ sudákṣo viśvávedāḥ | tváṃ vṛ́ṣā vṛṣatvébhir mahitvā́ dyumnébhiḥ dyumnī́ abhavo nṛcákṣāḥ ||
Thou, O Soma, by thy powers of will art perfectly puissant; by thy discerning energies thou art perfectly capable, knower of all. Thou art the Bull by thy bull-strengths; by thy greatness and thy luminous fulfillments thou becomest the seer of men.
त्वम् । सो॒म॒ । क्रतु॑ऽभिः । सु॒ऽक्रतुः॑ । भूः॒ । त्वम् । दक्षैः॑ । सु॒ऽदक्षः॑ । वि॒श्वऽवे॑दाः । त्वम् । वृषा॑ । वृ॒ष॒ऽत्वेभिः॑ । म॒हि॒ऽत्वा । द्यु॒म्नेभिः॑ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒ऽचक्षाः॑ ॥त्वम् । सोम । क्रतुभिः । सुक्रतुः । भूः । त्वम् । दक्षैः । सुदक्षः । विश्ववेदाः । त्वम् । वृषा । वृषत्वेभिः । महित्वा । द्युम्नेभिः । द्युम्नी । अभवः । नृचक्षाः ॥tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ | tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ | tvam | vṛṣā | vṛṣa-tvebhiḥ | mahi-tvā | dyumnebhiḥ | dyumnī | abhavaḥ | nṛ-cakṣāḥ