Sukta 1.91
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥
tvám imā́ óṣadhīḥ soma víśvā́s tvám apó ajanayas tváṃ gā́ḥ | tvám ā́ tatanthor úrv àntárikṣaṃ tváṃ jyótiṣā ví támo vavartha ||
Thou, O Soma, hast brought forth all these plants; thou hast generated the waters; thou hast released the rays of light. Thou hast stretched wide the mid-world, and by thy light thou hast driven away the darkness.
त्वम् । इ॒माः । ओष॑धीः । सो॒म॒ । विश्वाः॒ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः । त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । त्वम् । ज्योति॑षा । वि । तमः॑ । व॒व॒र्थ॒ ॥त्वम् । इमाः । ओषधीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः । त्वम् । आ । ततन्थ । उरु । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ ॥tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ | tvam | apaḥ | ajanayaḥ | tvam | gāḥ | tvam | ā | tatantha | uru | antarikṣam | tvam | jyotiṣā | vi | tamaḥ | vavartha