Sukta 1.91
अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् । भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥
अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥
aṣā́ḷhaṃ yut-sú pṛ́tanāsu papríṃ svaḥ-sā́m apsā́ṃ vṛ́janasya gopā́m | bhareṣu-jā́ṃ su-kṣitíṃ su-śrávasaṃ jáyantaṃ tvā́m ánu madema soma ||
Invincible in battles, filling the combats, winner of the luminous worlds, guardian of the waters and of the multitude, bringing victory in the bearing of our loads, giving good dwelling and good inspired hearing—following thee who conquerest, we would rejoice, O Soma.
अषा॑ह्ळम् । यु॒त्ऽसु । पृत॑नासु । पप्रि॑म् । स्वः॒ऽसाम् । अ॒प्साम् । वृ॒जन॑स्य । गो॒पाम् । भ॒रे॒षु॒ऽजाम् । सु॒ऽक्षि॒तिम् । सु॒ऽश्रव॑सम् । जय॑न्तम् । त्वाम् । अनु॑ । म॒दे॒म॒ । सो॒म॒ ॥अषाह्ळम् । युत्सु । पृतनासु । पप्रिम् । स्वःसाम् । अप्साम् । वृजनस्य । गोपाम् । भरेषुजाम् । सुक्षितिम् । सुश्रवसम् । जयन्तम् । त्वाम् । अनु । मदेम । सोम ॥aṣāhvam | yut-su | pṛtanāsu | paprim | svaḥ-sām | apsām | vṛjanasya | gopām | bhareṣu-jām | su-kṣitim | su-śravasam | jayantam | tvām | anu | madema | soma