Sukta 1.91
देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य । मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्य॒: प्र चि॑कित्सा॒ गवि॑ष्टौ ॥
devéna no mánasā deva soma rāyó bhāgáṃ sahasāvan abhí yudhya | mā́ tvā tanád ī́śiṣe vī́ryasyóbháyebhyaḥ prá cikitsā́ gaviṣṭáu ||
With the divine mind, O divine Soma, fight for us for our share of the plenitude. Let no slackening touch thee in the mastery of thy hero-force; from both sides be vigilant in the quest for the rays (go)—the luminous gains.
दे॒वेन॑ । नः॒ । मन॑सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒ऽव॒न् । अ॒भि । यु॒ध्य॒ । मा । त्वा । त॒न॒त् । ईशि॑षे । वी॒र्य॑स्य । उ॒भये॑भ्यः । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ ॥देवेन । नः । मनसा । देव । सोम । रायः । भागम् । सहसावन् । अभि । युध्य । मा । त्वा । तनत् । ईशिषे । वीर्यस्य । उभयेभ्यः । प्र । चिकित्स । गोइष्टौ ॥devena | naḥ | manasā | deva | soma | rāyaḥ | bhāgam | sahasāvan | abhi | yudhya | mā | tvā | tanat | īśiṣe | vīryasya | ubhayebhyaḥ | pra | cikitsa | go--iṣṭau