Sukta 1.91
सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥
sómo dhenúṃ sómo árvantam āśúṃ sómo vīráṃ karmaṇyàṃ dadāti | sādanyàṃ vidathyàṃ sabhéyaṃ pitṛśrávaṇaṃ yó dádāśad asmai ||
Soma gives the nourishing cow, Soma gives the swift steed, Soma gives the hero fit for works. He gives the power to sit in the seat of being, to find the right word in the assembly of seekers, and the ancestral hearing of truth—to him who offers himself to Soma.
सोमः॑ । धे॒नुम् । सोमः॑ । अर्व॑न्तम् । आ॒शुम् । सोमः॑ । वी॒रम् । क॒र्म॒ण्य॑म् । द॒दा॒ति॒ । स॒द॒न्य॑म् । वि॒द॒थ्य॑म् । स॒भेय॑म् । पि॒तृ॒ऽश्रव॑णम् । यः । ददा॑शत् । अ॒स्मै॒ ॥सोमः । धेनुम् । सोमः । अर्वन्तम् । आशुम् । सोमः । वीरम् । कर्मण्यम् । ददाति । सदन्यम् । विदथ्यम् । सभेयम् । पितृश्रवणम् । यः । ददाशत् । अस्मै ॥somaḥ | dhenum | somaḥ | arvantam | āśum | somaḥ | vīram | karmaṇyam | dadāti | sadanyam | vidathyam | sabheyam | pitṛ-śravaṇam | yaḥ | dadāśat | asmai