Sukta 1.91
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॒य॒स्फान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
yā́ te dhā́māni havíṣā yájanti tā́ te víśvā paribhū́r astu yajñám | gaya-sphā́naḥ pra-táraṇaḥ su-vī́ro 'vīra-hā́ prá carā soma duryā́n ||
Whatever thy seats and states of power they worship with the offering, may all these encompass and master our sacrifice. O Soma, enlarger of life, far-carrying deliverer, giver of true heroism, slayer of the unheroic, move forth through our inner dwellings.
या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् । ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥या । ते । धामानि । हविषा । यजन्ति । ता । ते । विश्वा । परिभूः । अस्तु । यज्ञम् । गयस्फानः । प्रतरणः । सुवीरः । अवीरहा । प्र । चर । सोम । दुर्यान् ॥yā | te | dhāmāni | haviṣā | yajanti | tā | te | viśvā | pari-bhūḥ | astu | yajñam | gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ | avīra-hā | pra | cara | soma | duryān