Sukta 1.91
त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥
त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑: ॥
tváṃ sóma prá cikito manīṣā́ tváṃ rájiṣṭham ánu neṣi pánthām | táva práṇītī pitáro na indo devéṣu rátnam abhajanta dhī́rāḥ ||
Thou, O Soma, art conscious by the illumined mind; thou leadest us along the most kingly path. By thy guiding, O Indu, our Fathers, the steadfast seers, won among the gods the treasure of the divine delight.
त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अनु॑ । ने॒षि॒ । पन्था॑म् । तव॑ । प्रऽनी॑ती । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न॑म् । अ॒भ॒ज॒न्त॒ । धीराः॑ ॥त्वम् । सोम । प्र । चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् । तव । प्रनीती । पितरः । नः । इन्दो इति । देवेषु । रत्नम् । अभजन्त । धीराः ॥tvam | soma | pra | cikitaḥ | manīṣā | tvam | rajiṣṭham | anu | neṣi | panthām | tava | pra-nītī | pitaraḥ | naḥ | indo iti | deveṣu | ratnam | abhajanta | dhīrāḥ