Sukta 1.91
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥
सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजा॒: सं वृष्ण्या॑न्यभिमाति॒षाह॑: । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
sáṃ te payā́ṃsi sám u yantu vā́jāḥ sáṃ vṛ́ṣṇyāny abhimātiṣā́haḥ | āpyā́yamāno amṛ́tāya soma diví śravā́ṃsy uttamā́ni dhiṣva ||
Let thy nourishing juices and thy forces of plenitude come together; let thy virile powers unite, O conqueror of hostile formations. As thou increasest toward immortality, O Soma, establish in the heaven of consciousness the highest inspired hearings (śravas) within us.
सम् । ते॒ । पयां॑सि । सम् । ऊँ॒ इति॑ । य॒न्तु॒ । वाजाः॑ । सम् । वृष्ण्या॑नि । अ॒भि॒मा॒ति॒ऽसहः॑ । आ॒ऽप्याय॑मानः । अ॒मृता॑य । सो॒म॒ । दि॒वि । श्रवां॑सि । उ॒त्ऽत॒मानि॑ । धि॒ष्व॒ ॥सम् । ते । पयांसि । सम् । ऊँ इति । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिसहः । आप्यायमानः । अमृताय । सोम । दिवि । श्रवांसि । उत्तमानि । धिष्व ॥sam | te | payāṃsi | sam | oṃ iti | yantu | vājāḥ | sam | vṛṣṇyāni | abhimāti-sahaḥ | āpyāyamānaḥ | amṛtāya | soma | divi | śravāṃsi | ut-tamāni | dhiṣva