Sukta 1.91
आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः । भवा नः सुश्रवस्तमः सखा वृधे ॥
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभि॑: । भवा॑ नः सु॒श्रव॑स्तम॒: सखा॑ वृ॒धे ॥
ā́ pyāyasva madíntama sóma víśvebhir aṃśúbhiḥ | bhávā naḥ suśrávastamaḥ sákhā vṛdhé ||
Increase, O Soma most full of ecstasy, with all thy rays. Become for our growth a friend most rich in inspired fame—one who makes the soul’s hearing of truth abundant.
आ । प्या॒य॒स्व॒ । म॒दि॒न्ऽत॒म॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः । सखा॑ । वृ॒धे ॥आ । प्यायस्व । मदिन्तम । सोम । विश्वेभिः । अंशुभिः । भव । नः । सुश्रवःतमः । सखा । वृधे ॥ā | pyāyāasva | madin-tama | soma | viśvebhiḥ | aṃśu-bhiḥ | bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vṛdhe