Sukta 1.91
उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः । सखा सुशेव एधि नः ॥
उ॒रु॒ष्या णो॑ अ॒भिश॑स्ते॒: सोम॒ नि पा॒ह्यंह॑सः । सखा॑ सु॒शेव॑ एधि नः ॥
uruṣyā́ ṇo abhiśastéḥ sóma ní pāhy áṃhasaḥ | sákhā suśéva edhi naḥ ||
O Soma, widen and protect us from the assaulting curse; guard us down from the sin and narrowing distress. Be to us a friend of happy grace and increase within us.
उ॒रु॒ष्य । नः॒ । अ॒भिऽश॑स्तेः । सोम॑ । नि । पा॒हि॒ । अंह॑सः । सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥उरुष्य । नः । अभिशस्तेः । सोम । नि । पाहि । अंहसः । सखा । सुशेवः । एधि । नः ॥uruṣya | ṇaḥ | abhi-śasteḥ | soma | ni | pāhi | aṃhasaḥ | sakhā | su-śevaḥ | edhi | naḥ